हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Sri Padma Kavacham – श्री पद्मा कवचम्


नारायण उवाच ।
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ १ ॥

सम्प्राप्य कवचं ब्रह्म तत्पद्मे ससृजे जगत् ।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ २ ॥

पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ।
पाद्मेन पद्मकल्पे च कवचं परमाद्भुतम् ॥ ३ ॥

दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।
कुमारेण च यद्दत्तं पुष्कराक्षाय नारद ॥ ४ ॥

यद्धृत्वा पठनाद्ब्रह्मा सर्वसिद्धेश्वरो महान् ।
परमैश्वर्यसम्युक्तः सर्वसम्पत्समन्वितः ॥ ५ ॥

यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ।
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ ६ ॥

प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्धारणाद्यतः ॥ ७ ॥

कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ।
धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः ॥ ८ ॥

यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ ९ ॥

यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ १० ॥

राजा मरुत्तो भगवानभवद्धारणाद्यतः ।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ ११ ॥

विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥ १२ ॥

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ १३ ॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ १४ ॥

ओं ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥ १५ ॥

ओं श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु ।
ओं [ह्रीं] श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ १६ ॥

ओं श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ।
ओं श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥ १७ ॥

ओं श्रीं नारायणेशायै मम कण्ठं सदाऽवतु ।
ओं श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु ॥ १८ ॥

ओं श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु ।
ओं ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ १९ ॥

ओं श्रीं ओं कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ २० ॥

ओं श्रीनिवासकान्तायै मम पादौ सदाऽवतु ।
ओं ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ २१ ॥

प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैरृत्यां श्रीहरिप्रिया ॥ २२ ॥

पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ २३ ॥

नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ २४ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ २५ ॥

सुवर्णपर्वतं दत्वा मेरुतुल्यं द्विजातये ।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ २६ ॥

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ २७ ॥

अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ २८ ॥

स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ २९ ॥

यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ ३० ॥

इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ३१ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे अष्टात्रिंशत्तमोऽध्याये नारदनारायणसंवादे श्री लक्ष्मी कवचम् ॥


 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.